श्री युधिष्ठिर कृत श्री कामेश्वरी स्तुति

नमस्ते परमेशानि ब्रह्मरुपे सनातनि । सुरासुरजगद्वन्द्दे कामेश्वरि नमोsस्तु ते

For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431

Eligible For Puja: Anyone 0 Students enrolled
Last updated on : Sun, 26-Mar-2023 Hindi-gujarati

नमस्ते परमेशानि ब्रह्मरुपे सनातनि । 

सुरासुरजगद्वन्द्दे कामेश्वरि नमोsस्तु ते ॥ १ ॥ 

न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः । 

प्रसीद जगतामाद्ये कामेश्वरि नमोsस्तु ते ॥ २ ॥

अनादिपरमा विद्या देहिनां देहधारिणी । 

त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोsस्तु ते ॥ ३ ॥

त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः । 

त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोsस्तु ते ॥ ४ ॥

त्वामाराध्य महेशोsपि कृतकृत्यं हि मन्यते । 

आत्मानं परमात्माsपि कामेश्वरि नमोsस्तु ते ॥ ५ ॥ 

दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे ।

लोकानां तापसंहर्त्रि कामेश्वरि नमोsस्तु ते ॥ ६ ॥

त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी ।

करालवदने कालि कामेश्वरि नमोsस्तु ते ॥ ७ ॥

प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे ।

प्रसीद परमे पूर्णे कामेश्वरि नमोsस्तु ते ॥ ८ ॥

त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते ।

जगतां त्रिजगद्धात्रि कामेश्वरि नमोsस्तु ते ॥ ९ ॥

शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी ।

त्वमेव मातर्विश्वेशि कामेश्वरि नमोस्तुते ॥ १० ॥